Sloka 371

३७१. 371.

यस्य स्यान्मृत्युना सख्यं यो वै स्यादजरामरः

तस्य तद्युज्यते वक्तुमिदं मे श्वो भविष्यति७१॥

yasya syānmṛtyunā sakhyaṁ yo vai syādajarāmaraḥ,

tasya tadyujyate vaktumidaṁ me śvo bhaviṣyati.

Dia yang bersahabat dengan kematian, dan dia yang tidak menjadi tua dan abadi, hanya dia yang berhak mengatakan ini, akan terjadi padanya besok.

Yapwan hana sira samitra lawan sang hyang mrĕtyu, tan kĕna ring tuha pāti kunang sira yogyan umiyatakĕnang mne hlĕm.

Jika ada orang bersahabat dengan sang maut, orang itu akan terbebas dari usia tua dan kematian. Orang itu berhak dan berwenang menentukan waktunya dengan pasti, sekarang ataupun kemudian kematiannya.

There are no reviews for this eBook.

0
0 out of 5 (0 User reviews )

Add a Review

Your Rating *

Sloka Lainnya

Sloka 372

अपर्य्यन्तस्य कालस्य कियानंशः शरच्छतम्। तन्मात्रपरमायुर्य्यः स कथं स्वप्तुमर्हति॥३७२॥

Sloka 373

भूतजीवितमत्यल्पं रात्रिस्तत्रार्द्धहारिणी। तदर्द्धमपि निर्ह्रास्यं व्याधिशोकजरामरैः॥३७३॥

Sloka 374

सन्निमज्जज्जगदिदं गम्भीरे कालसागरे। जरामृत्युमहाग्राहे न कश्चिदवबुध्यते॥३७४॥

Sloka 375

नौषधानि न शास्त्राणि न होमा न पुनर्ज्जपाः। त्रायन्ते मृत्युनोपेतं जरया वापि मानवम्॥३७५॥

Sloka 376

यस्तु दृष्त्वा परं जीर्ण्णं व्याधितं मृतमेव च। स्वस्थो भवति नोद्विग्नो यथाऽचोतास्तथैव सः॥३७६॥

Sloka 377

अपि सागरपर्ययन्तां विजित्येह वसुन्धराम्। न कश्चिज्जत्वापक्रामेज्जरां मृत्युम् च मानवः॥३७७॥

Sloka 378

अहोरात्रमयो लोके जरारूपेण सञ्चरन्। मृत्युर्ग्रसति भूतानि पन्नगः पवनं यथा॥३७८॥

Sloka 379

नपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरि। अस्थि निर्द्दशनः श्वेव जिह्वया लेढि केवलम्॥३७९॥

Sloka 380

आसन्नतरतां याति मृत्युर्य्याति दिने दिने। आघातं नीयमानस्य वध्यस्येव पदे पदे॥३८॰॥

Sloka 381

इदमेतत् करिष्यामि तत एतद्भविष्यति। संकल्पः क्रियते योऽयं न तं मृत्युः प्रतीक्षते॥३८१॥