Bab
Sloka 393
भूतानि जात्या मरणान्वितानि जराविकारैश्च समन्वितानि। निरीक्श्य दुःखैः परिपीडितानि मोक्षं प्रशंसन्ति बुधाः स्ववेद्यम्॥॥
Sloka 395
यद्यच्छरीरेण करोति कर्म्म शरीरयुक्तः समुपाश्नुते तत्। शरीरमेवायतनं सुखस्य दुःखस्य वातोऽस्य भावे न भावे॥३९५॥
Sloka 398
यज्ञैस्तपोभिर्न्नियमैर्व्व्रतैश्च दिवं समासाद्य पतन्ति भूयः। तस्मादुपास्यं परमं पवित्रं शिवं विमोक्षं विमलं बुधेन॥३९८॥
Sloka 400
पतन्तस्तु महादुःखं परितापं सुदारुणम्। स्वर्ग्गभाजः प्राप्नुवन्ति तस्मात् स्वर्ग्गं न कामये॥४॰ ॰॥
Sloka 401
नरके यातनादुःखं तिर्य्यक्ष्वन्योऽन्यभक्षणम्। क्षुत्तृषादुःखं प्रेतेषु पर्य्येति व्यसनं नृषु॥४॰ १॥