Bab
Sloka 26
यथेक्षुहेतोरिह सेचितं पयः तृणानि वल्लीरपि सम्प्रसिञ्चति । तथा नरो धर्म्मपथेन सञ्चरन् यशांसि कामानि वसूनि चाश्नुते ॥२६॥
Sloka 27
सुरूपतामात्मगुणं च विस्तरं कुलान्वयं द्रव्यसमृद्धिसञ्चयम् । नरो हि सर्व्वं लभते यथाकृतं सदाशुभेनात्मकृतेन कर्म्मणा ॥२७॥
Sloka 28
कान्तारवनदुर्ग्गेषु कृच्च्रेष्वापत्सु सम्भ्रमे। उद्यतेषु च शस्त्रेषु नास्ति धर्म्मवतां भयम्॥२८॥
Sloka 31
अर्ज्जयेज्ज्ञानमर्थाश्च विद्वानमरवत् स्थितः। केशेष्विव गृहितः सन् मृत्युना धर्म्ममाचरेत्॥३१॥
Sloka 33
युवैव धर्म्ममन्विच्छेद् युवा वित्तं युवा श्रुतम्। तिर्य्यग्भवति वै दर्भ उत्पतन् न च विद्ध्यति॥३३॥