Bab

Sloka 52

म्रियन्ते जन्मनोऽर्थाय जायन्ते मरनाय च । न धर्माथं न कामार्थं तृणानिव पृथग्जनाः ॥५२॥

Sloka 53

ये तु धर्म्म मसूयन्ते बुद्धिमोहान्वित जनाः । अपथा गच्छतां तेषामणुयातापि पीड्यते ॥५३॥

Sloka 54

अधर्मरुचयो मन्दास्तिर्य्यग्गतिपरायणाः । कृच्छ्रां योनिमनुप्राप्य न विन्दन्ति सुखं जनाः ॥५४॥

Sloka 55

धनस्य यस्य राजतो भयं न चास्ति चोरतः । मृतम् च यन्न मुञ्चति समर्ज्जयस्व तद्धनम् ॥५५॥

Sloka 56

धर्म्मश्चेन्नावसिदेत कपालेनापि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं धर्म्म वित्ता हि साधवः ॥५६॥

Sloka 57

धर्म्ममाचरतो वृत्तिर्यदि नोपगमिष्यति । न नम किं शिलोञ्छाम्बु शाकाद्यपि विपत्स्यते ॥५७॥

Sloka 58

सन्ति शाकान्यरण्येषु नद्यश्च विमलोदकाः । चन्द्रः सामान्यदीपोऽयं विभवैः किं प्रयोजनम् ॥५८॥

Sloka 59

व्यापृतेनापि हि स्वार्थः क्रियते चान्तरेऽन्तरे । मेध्री पृष्ठेऽपि हि भ्राम्यन् ग्रासं ग्रासं करोति गौः ॥५९॥

Sloka 60

बुद्धेन शान्तदान्तेन नित्यमभ्युत्थितात्मना । धर्मस्य गतिरन्वेष्य मत्स्यस्य गतिरप्स्विव ॥६०॥