Bab
Sloka 61
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्ण्णा द्विजातयः । चतुर्थ एकजातीयः शूद्रो नास्तीह पञ्चमः ॥६१॥
Sloka 62
अधीयीत ब्राह्मनो वै यजेत दद्यादियात् तीर्थमुख्यानि चैव । अध्यापयेद्याजयेच्छापि याज्यान् प्रतिग्रहान् व विहितानुपेयात् ॥६२॥
Sloka 63
धर्म्मश्च सत्यं च तपो दमश्च विमत्सरित्वं ह्रीस्तितिक्षानसूय । यज्ञाश्च दानं च धृतिः क्षमा च महाव्रतानि द्वादश वै ब्राह्मणस्य ॥६३॥
Sloka 64
अधीत्य वेदान् परिसंस्तीर्य्य चाग्निनिष्ट्वा यज्ञैः पालयित्वा प्रजश्च । भृत्यन् भृत्वा ज्ञतिसम्बन्धिनश्च दानं दत्त्वा क्षत्रियः स्वर्ग्गमेति ॥६४॥
Sloka 65
वैश्योऽधीत्य ब्रामणात् क्षत्रियाद्वा धनैः काले संबिभज्याश्रितांश्च । त्रेतापूर्व्वं धूममाघ्राय पुण्यं प्रेत्य स्वर्ग्गे देवसुखानि भुंक्ते ॥६५॥
Sloka 66
ब्रह्म क्षत्रं वैश्यवर्ण्णं च शूद्रः क्रमेनैतान् न्यायतः पुज्यमानः । तुष्टेष्वेतेष्वव्यथो दग्धपापस्त्यक्त्वा देहं सिद्धिमिष्टम्ल्लभेत ॥६६॥
Sloka 67
राजा भीरुर्ब्राह्मणः सर्व्वभक्षो वैश्योऽनीहावान् हीनवर्ण्णोऽलसश्च । विद्वानशीलो वृत्तहीनः कुलीनः सत्याद् भ्रष्टो ब्राह्मणह् स्त्री च दुष्टा ॥६७॥
Sloka 68
रागी मुक्तः पचमानः स्वहेतोर्म्मूर्खो वक्ता नृपहीनं च रष्ट्रम् । एते सर्व्वे शोच्यतां यान्ति राजन् यश्चा मुक्तः स्नेहहीनः प्रजासु ॥६८॥
Sloka 69
आर्ज्जवं चानृशंस्यं च दमाश्चेन्द्रियनिग्रहः । एष साधारणो धर्म्मश् चतुर्प्व्वर्ण्येऽब्रवीन्मनुः ॥६९॥