Bab

Sloka 88

सर्व्वं पश्यति चक्षुष्मान् मनोयुक्तेम् चक्षुषा । मनसि व्याकुले जते पश्यन्नपि न पश्यति ॥८८॥

Sloka 89

स्त्रैणस्यावाच्यदेशस्य क्लिन्ननाडीव्रणस्य​ च । अभेदेऽपि मनोभेदाज्जनाः प्रायेण वञ्च्यते ॥८९॥

Sloka 90

लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा । प्रवञ्च्यते जनेनात्मा संज्ञाशब्दैः स्वयंकृतैः ॥९०॥

Sloka 91

अभिन्णेष्वपि कार्येषु भिद्यते मनसः क्रिया । अन्येथैव स्तनं पुत्रश्चिन्तयत्यन्यथा पतिः ॥९१॥

Sloka 92

परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥९२॥

Sloka 93

भावशुद्धिर्मनुष्यस्य विज्ञेया सर्व्वकर्म्मसु । अन्यथा चुम्ब्यते कान्ता भावेन दुहितान्यथा ॥९३॥

Sloka 94

अभीध्यालुः परस्वेषु नेह नामुत्र नन्दति । तस्मादभिध्या सन्त्याज्या सर्व्वदाभीप्सता सुखम् ॥९४॥

Sloka 95

सदा समाहितं चित्तं नरो भूतेषु धारयेत् । नाभिध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् ॥९५॥

Sloka 96

नियच्छायच्छ संयच्छ चेन्द्रियाणि मनस्तथा । प्रतिषेध्येष्ववद्येषु दुर्ल्लभेष्वहितेषु च ॥९६॥