Bab

Sloka 70

अहिंसा सत्यवचनं सर्व्वभूतेषु चार्ज्जवम् । क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥७०॥

Sloka 71

सर्व्वं जिह्मं मृत्युपदमार्ज्जवं ब्राह्मणः पदम् । एतावान् ज्ञानविषयः किं प्रलापः करिष्यते ॥७१॥

Sloka 72

आनृषंस्यं परो धर्म्मः क्षमा च परमं बलम् । आत्मज्ञानं परं ज्ञनं सत्यव्रतं परं व्रतं ॥७२॥

Sloka 73

कण्टकान् कूपमग्निं च वर्ज्जयन्ति सदा नराः । तथा नृशंसकर्म्माणं वर्ज्जयन्ति नराधमम् ॥७३॥

Sloka 74

दानाद्दमो विशिष्टो हि दनमुन्नतिकारणम् । दाता कुप्यति नो दान्तस्तस्माद्दानात् परो दमः ॥७४॥

Sloka 75

नोदकक्लिन्नगात्रो हि स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः स बाह्याभ्यन्तरशुचिः ॥७५॥

Sloka 76

न हृष्यति महत्यर्थे व्यसने च न शोचति । यो व परिमितप्रज्नः स दान्त इति कीर्त्त्यते ॥७६॥

Sloka 77

इन्द्रियाण्येव तत् सर्व्वं यत् स्वर्ग्गनरकावुभौ । निगृहीतनिस्सृष्टानि स्वर्ग्गय नरकाय च ॥७७॥

Sloka 78

जीवितं साधुवृत्तं योगक्षेमं बलं यषः । धर्म्ममर्थं च पुष्नाति नृणामिन्द्रियनिग्रहः ॥७८॥