Bab

Sloka 97

यस्येर्ष्या परवित्तेषु रूपे वीर्य्य कुलान्वये । सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तग ॥९७॥

Sloka 98

क्षमावतामयं लोकः परलोकः क्षमावताम् । इह सम्मानमृच्छन्ति परत्र च शुभां गतिम् ॥९८॥

Sloka 99

नातः श्रीमत्तरं किञ्चिदन्यत् पथ्यतरं तथा । प्रभविष्नोर्य्यथा ताता क्षमा सर्व्वत्र सर्व्वदा ॥९९॥

Sloka 100

यदि न स्युर्म्मनुष्येषु क्षमिणः पृथीविसमाः । न स्यात् सख्यं मनुष्यनां क्रोधमूलो हि विग्रहः ॥१॰॰॥

Sloka 101

यः समुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्ण्णं स वैपुरुष उच्यते ॥१॰१॥

Sloka 102

न शत्रवः क्षयं यान्ति यावज्जीवमपि घ्नतः । क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥१॰२॥

Sloka 103

अव्याधिजं कटुकं शीर्षरोगं यशोमुषं पापफलोदयं च । सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥१॰३॥

Sloka 104

आत्मोपमस्तु भूतेषु यो भवेदिह पूरुषः । त्यक्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥१॰४॥

Sloka 105

जातवैरस्तु पूरुषो दुःखं स्वपिति सर्व्वदा । अनिर्वृतेन मनसा स सर्प्प इव वेश्मनि ॥१॰५॥