Bab
Sloka 80
अनभिध्यां परस्स्वेषु सर्व्वसत्त्वेषु चारुषम् । कर्म्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥८॰॥
Sloka 84
वाचि कर्म्मणि चित्ते च दुर्ल्लभः सगुनो जनः । यस्य त्वेवंविधं कार्य्यं स जनः सर्व्वदुर्ल्लभः ॥८४॥
Sloka 86
मनो हि मूलं सर्व्वेषामिन्द्रयाणं प्रवर्तते । शुभाशुभस्ववस्थासु कार्य्यं तत् सुव्यवस्थितम् ॥८६॥