पूर्व्वे वयसि यः शान्तः स शान्त इति मे मतिः। धातुषु क्षीयमाणेषु शमः कस्य न विद्यते॥३४॥
युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा। मृत्योरुत्सङ्गमारुह्य स्थविरः किमपेक्षते॥३५॥
पुरा शरीरमन्तको भिनत्ति रोगसारथिः। प्रसह्य जिवितक्षये शुभं महत् समाहरेत्॥३६॥
युवैव धर्म्मशीलः स्यादनित्यं खलु जीवितम् । को हि जानाति कस्याद्य मृत्युसेना पतिष्यति ॥३७॥
आ धूमाग्रान्निवर्त्तन्ते ज्ञातयः सह बान्धवैः। येन तैः सह गन्तव्यं तत् कर्म्म सुकृतं कुरु॥३८॥
मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं जनाः। मुहूर्त्तमुपरुद्याथ ततो यान्ति पराङ्मुखाः॥३९॥
एको धर्म्मः परं श्रेयः क्षमैका शान्तिरुच्यते। विद्यैका परमा तुष्टिरहिंसैका सुखावहा॥४०॥
एकं यदि भवेच्छास्त्रं श्रेयो निस्संशयं भवेत्। बहुत्वादिह शास्त्राणां गुहां श्रेयः प्रवेशितम्॥४१॥
मा तात वृद्धान् परिभूः शिक्षस्वागमयस्व च । अहोरिव हि धर्मस्य सूक्ष्मा दुरनुगा गतिः ॥४२॥