नाच्छादयति कौपीनं न दंशमशकापहम्। शुनः पुच्छमिवानार्थं ज्ञानमन्यायवर्त्तिनः॥३५७॥
कर्म्मदायादको लोकः कर्म्मसम्बन्धिलक्षणः। कर्म्माणि चोदयन्तीह सर्व्वे कर्म्मवशा वयम्॥॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्। तथा शुभाशुभं कर्म्म, कर्त्तारमनुगच्छति॥३५९॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च। स्वं कालं नातिवर्त्तन्ते तथा कर्म्म पुरा कृतम्॥३६०॥
बालो युवा च वृद्धश्च यत् करोति शुभाशुभं। तस्यां तस्यामवस्थायां भुंक्ते जन्मनि जन्मनि॥३६१॥
बुद्धिमन्तो महोत्साहाः प्राज्ञाः शूरा जितेन्द्रियाः। पाणिपादैरुपेताश्च दृश्यन्ते प्रेष्यतां गताः॥३६२॥
महच्च फलवैसम्यं दृश्यते फलबन्धिषु। वहन्ति शिविकामन्ये यान्त्यन्ये शिविकां गताः॥३६३॥
उपर्य्युपरि लोकस्य सर्व्वो भवितुमिच्छति। यतते च यथाशक्ति न चसौ वर्तते तथा॥३६४॥
सम्मानश्चावमानश्च लाभालाभौ क्षयाक्षयौ। प्रवृत्ता विनिवर्तन्ते विधानान्ते पदे पदे॥३६५॥