Bab
Sloka 133
सत्यधर्म्मच्युतात् पुंसः क्रुद्धादाशीविषादिव । नस्तिकोऽप्युद्विजेतेह जनः किं पुनरास्तिकः ॥१३३॥
Sloka 134
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । मृत्युरपद्यते मोहात् सत्येनापद्द्यतेऽमृतम् ॥१३४॥
Sloka 136
ब्राह्मणो वा मनुष्याणमादित्यो वापि तेजसाम् । शिरो वा सर्व्वगात्राणां धर्म्माणां सत्यमुत्तमम् ॥१३६॥
Sloka 141
धर्म्मार्थकाममोक्षाणां प्रानाः संस्थितिहेतवः । तान् निघ्नता किं न हतं रक्षा भूतहितार्था च ॥१४१॥