Bab
Sloka 151
सर्व्वसत्त्वेषु यद्दानमेकसत्त्वे च या दया । सर्व्वसस्त्त्वप्रदानाद्धि दयैका च विशिष्यते ॥१५१॥
Sloka 152
न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्य्याद् यथात्मनि तथा परे ॥१५२॥
Sloka 157
त्रीण्येव च धनान्याहुः पुरुषस्योत्तमव्रताः । न द्रुह्याच्चैव दद्याच्च सत्यं चैवा सदा वदेत् ॥१५७॥
Sloka 159
परदारा न गन्तव्याः सर्व्ववर्ण्णेसु कर्हिचित् । न हीदृशमनायुष्यं यथान्यस्त्रीनिषेवणम् ॥१५९॥
Sloka 160
तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना । नायुष्कामेन सेव्याः स्युर्म्मनसापि परस्त्रियः ॥१६॰॥