Bab

Sloka 151

सर्व्वसत्त्वेषु यद्दानमेकसत्त्वे च या दया । सर्व्वसस्त्त्वप्रदानाद्धि दयैका च विशिष्यते ॥१५१॥

Sloka 152

न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्य्याद् यथात्मनि तथा परे ॥१५२॥

Sloka 153

अक्रोधनः सत्यवादी भूतानामविहिंसकः । अनसूयः सदाचारो दिर्घमायुरवाप्नुयात् ॥१५३॥

Sloka 154

दौष्कुला व्याधिबहुला दुराचाराः प्रहारिणः । भवन्त्यल्पायुषः पापा रोदुक कश्मलोदयात् ॥१५४॥

Sloka 155

ये धनान्यपकर्षन्ति नरः स्वबलमाश्रिताः । न हरेद् धर्मकामं च प्रमुषन्ति न संशयः ॥१५४॥

Sloka 156

अहरन् कस्यचिद् द्रव्यं यो नरः सुखमवसेत् । सर्व्वतः शङ्कितः स्तेनो मृगो ग्राममिवागतः ॥१५६॥

Sloka 157

त्रीण्येव च धनान्याहुः पुरुषस्योत्तमव्रताः । न द्रुह्याच्चैव दद्याच्च सत्यं चैवा सदा वदेत् ॥१५७॥

Sloka 159

परदारा न गन्तव्याः सर्व्ववर्ण्णेसु कर्हिचित् । न हीदृशमनायुष्यं यथान्यस्त्रीनिषेवणम् ॥१५९॥

Sloka 160

तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना । नायुष्कामेन सेव्याः स्युर्म्मनसापि परस्त्रियः ॥१६॰॥