Bab

Sloka 181

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्तं वरं त्यागो विनाशे नियते सति ॥१८१॥

Sloka 182

ददध्वं​ भूञ्जता भृशं मा भूत कृपणा जनाः । कर्म्माक्षयेण क्षीयन्ते नोपभोगेन सञ्चयाः ॥१८२॥

Sloka 183

अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला नारी शीलवृत्तफलं श्रुतम् ॥१८३॥

Sloka 184

धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपून् न बाधते । श्रुतेन किं येन न धर्म्म मचरेत् किमात्मना यो न जितेन्द्रियो वशी ॥१८४॥

Sloka 185

यस्य प्रदानवन्ध्यानि धनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥१८५॥

Sloka 186

दानं हि भूतभयदक्सिनयाः सर्व्वाणि दानान्यधितिष्ठतीह । तीक्ष्नां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥१८६॥

Sloka 187

देशकालागमक्षेत्रद्रव्यदातृमनोगुणाः । सुकृतस्यापि दानस्य फलातिशयहेतवः ॥१८७॥

Sloka 188

द्वाविमौ पुरुषव्याघ्र स्वर्ग्गस्योपरि तिष्ठतः । दुर्भिक्षा चान्नदाता च सुभिक्षे च हिरण्यदः ॥१८८॥

Sloka 189

अयनेषु च यद्दत्तं षडशीतिमुखेषु च । चन्द्रसूर्य्योपरागे च विषुवे च तदक्षयम् ॥१८९॥