सर्व्वे च वेदाः सह षड्भिरङ्गैः षाङ्ख्यं पुराणं च कुले च जन्म ।
यो लोकमनुगृह्णाति दरिद्रं दीनमानसम् । स पुत्रपशुभिर्वृद्धिं यशश्चाक्षयमश्नुते ॥१७२॥
अमित्रमपि यो दीनं शरणैषिणमागतम् । व्यसनेष्वनुगृह्णाति स वै पुरुष उच्यते ॥१७३॥
सार्थः प्रवसतो मित्रं भार्य्य मित्रं गृहे सतः । आतुरस्य भिषङ् मित्रं दानं मित्रं मरिष्यतः ॥१७४॥
न माता न पिता किञ्चित् कस्यचित् प्रतिपद्यते । दनपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ॥१७५॥
अमात्सर्यं बुधाः प्राहुर्दानं धर्म्म च संयमम् । अवस्थितेन नित्यं हि त्यागे त्वासाद्यते शुभम् ॥१७६॥
दानेन भोगी भवति मेधावी वृद्धसेवया । अहिंसया च दिर्घायुरिति प्राहुर्म्मनीषिणः ॥१७७॥
न दानाद्दुष्करतरं त्रिषु लोकेषु विद्यते । अर्थे हि महती तृष्णा स च कृच्छ्रेण लभ्यते ॥१७८॥
अर्थवानर्थमर्थिभ्यो न ददात्यत्र को गुणः । एकैव गतिरर्थस्य दानमन्या विपत्तयः ॥१८०॥