Bab
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 1
श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३.१॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 2
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३.२॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 3
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥१३.३॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 4
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३.४॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 5
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥१३.५॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 6
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३.६॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 7
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३.७॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 8
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३.८॥
BAB XIII - Ajaran Yoga Tentang Kṣetra dan Kṣetrajña | Sloka 9
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्तोपपत्तिषु ॥१३.९॥